Soundarya Lahari Lyrics
Soundarya Lahari Lyrics
भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् ।
त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥
शिवः शक्त्या युक्तो यदि भवति शक्तः
प्रभवितुं न चेदेवं देवो न खलु कुशलः
स्पन्दितुमपि।
अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥
1 ॥ तनीयांसुं पांसुं तव चरण पङ्केरुह-भवं विरिञ्चिः
सञ्चिन्वन् विरचयति लोका-नविकलम् । वहत्येनं शौरिः
कथमपि सहस्रेण शिरसां हरः सङ्क्षुद्-यैनं भजति भसितोद्धूल नविधिम्॥ 2 ॥
अविद्याना-मन्त-स्तिमिर-मिहिर द्वीपनगरी जडानां चैतन्य-स्तबक मकरन्द श्रुतिझरी ।
दरिद्राणां चिन्तामणि गुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपु वराहस्य भवति॥ 3 ॥
त्वदन्यः पाणिभया-मभयवरदो दैवतगणः
त्वमेका नैवासि प्रकटित-वरभीत्यभिनया ।
भयात् त्रातुं दातुं फलमपि च वांछासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ 4 ॥
हरिस्त्वामारध्य प्रणत-जन-सौभाग्य-जननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभ मनयत् ।
स्मरोஉपि त्वां नत्वा रतिनयन-लेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ 5 ॥
धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः वसन्तः सामन्तो मलयमरु-दायोधन-रथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपां अपाङ्गात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ॥ 6 ॥ क्वणत्काञ्ची-दामा करि कलभ कुम्भ-स्तननता परिक्षीणा मध्ये परिणत शरच्चन्द्र-वदना । धनुर्बाणान् पाशं सृ॒णिमपि दधाना करतलैः पुरस्ता दास्तां नः पुरमथितु राहो-पुरुषिका ॥ 7 ॥ सुधासिन्धोर्मध्ये सुरविट-पिवाटी-परिवृते मणिद्वीपे नीपो-पवनवति चिन्तामणि गृहे । शिवकारे मञ्चे परमशिव-पर्यङ्क निलयाम् भजन्ति त्वां धन्याः कतिचन चिदानन्द-लहरीम् ॥ 8 ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वधिष्टाने हृदि मरुत-माकाश-मुपरि । मनोஉपि भ्रूमध्ये सकलमपि भित्वा कुलपथं सहस्रारे पद्मे स हरहसि पत्या विहरसे ॥ 9 ॥ सुधाधारासारै-श्चरणयुगलान्त-र्विगलितैः प्रपञ्चं सिन्ञ्न्ती पुनरपि रसाम्नाय-महसः। अवाप्य स्वां भूमिं भुजगनिभ-मध्युष्ट-वलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ 10 ॥ चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्-वसुदल-कलाश्च्-त्रिवलय- त्रिरेखभिः सार्धं तव शरणकोणाः परिणताः ॥ 11 ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्राः कल्पन्ते कथमपि विरिञ्चि-प्रभृतयः । यदालोकौत्सुक्या-दमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिश-सायुज्य-पदवीम् ॥ 12 ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतित-मनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलश-विस्त्रिस्त-सिचया हटात् त्रुट्यत्काञ्यो विगलित-दुकूला युवतयः ॥ 13 ॥ क्षितौ षट्पञ्चाशद्-द्विसमधिक-पञ्चाश-दुदके हुतशे द्वाषष्टि-श्चतुरधिक-पञ्चाश-दनिले । दिवि द्विः षट् त्रिंशन् मनसि च चतुःषष्टिरिति ये मयूखा-स्तेषा-मप्युपरि तव पादाम्बुज-युगम् ॥ 14 ॥ शरज्ज्योत्स्ना शुद्धां शशियुत-जटाजूट-मकुटां वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक-कराम् । सकृन्न त्वा नत्वा कथमिव सतां सन्निदधते मधु-क्षीर-द्राक्षा-मधुरिम-धुरीणाः फणितयः ॥ 15 ॥ कवीन्द्राणां चेतः कमलवन-बालातप-रुचिं भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् । विरिञ्चि-प्रेयस्या-स्तरुणतर-श्रृङ्गर लहरी- गभीराभि-र्वाग्भिः र्विदधति सतां रञ्जनममी ॥ 16 ॥ सवित्रीभि-र्वाचां चशि-मणि शिला-भङ्ग रुचिभि- र्वशिन्यद्याभि-स्त्वां सह जननि सञ्चिन्तयति यः । स कर्ता काव्यानां भवति महतां भङ्गिरुचिभि- र्वचोभि-र्वाग्देवी-वदन-कमलामोद मधुरैः ॥ 17 ॥ तनुच्छायाभिस्ते तरुण-तरणि-श्रीसरणिभि- र्दिवं सर्वा-मुर्वी-मरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्य-द्वनहरिण-शालीन-नयनाः सहोर्वश्या वश्याः कति कति न गीर्वाण-गणिकाः ॥ 18 ॥ मुखं बिन्दुं कृत्वा कुचयुगमध-स्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः सङ्क्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दु-स्तनयुगाम् ॥ 19 ॥ किरन्ती-मङ्गेभ्यः किरण-निकुरुम्बमृतरसं हृदि त्वा माधत्ते हिमकरशिला-मूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्तधिप इव ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥ 20 ॥ तटिल्लेखा-तन्वीं तपन शशि वै॒श्वानर मयीं निष्ण्णां षण्णामप्युपरि कमलानां तव कलाम् । महापद्मातव्यां मृदित-मलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लाद-लहरीम् ॥ 21 ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणां इति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्य-पदवीं मुकुन्द-ब्रम्हेन्द्र स्फुट मकुट नीराजितपदाम् ॥ 22 ॥ त्वया हृत्वा वामं वपु-रपरितृप्तेन मनसा शरीरार्धं शम्भो-रपरमपि शङ्के हृतमभूत् । यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिल-शशिचूडाल-मकुटम् ॥ 23 ॥ जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्व-न्नेतत् स्वमपि वपु-रीश-स्तिरयति । सदा पूर्वः सर्वं तदिद मनुगृह्णाति च शिव- स्तवाज्ञा मलम्ब्य क्षणचलितयो र्भ्रूलतिकयोः ॥ 24 ॥ त्रयाणां देवानां त्रिगुण-जनितानां तव शिवे भवेत् पूजा पूजा तव चरणयो-र्या विरचिता । तथा हि त्वत्पादोद्वहन-मणिपीठस्य निकटे स्थिता ह्येते-शश्वन्मुकुलित करोत्तंस-मकुटाः ॥ 25 ॥ विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री-विततिरपि संमीलित-दृशा महासंहारेஉस्मिन् विहरति सति त्वत्पति रसौ ॥ 26 ॥ जपो जल्पः शिल्पं सकलमपि मुद्राविरचना गतिः प्रादक्षिण्य-क्रमण-मशनाद्या हुति-विधिः । प्रणामः संवेशः सुखमखिल-मात्मार्पण-दृशा सपर्या पर्याय-स्तव भवतु यन्मे विलसितम् ॥ 27 ॥ सुधामप्यास्वाद्य प्रति-भय-जरमृत्यु-हरिणीं विपद्यन्ते विश्वे विधि-शतमखाद्या दिविषदः । करालं यत् क्ष्वेलं कबलितवतः कालकलना न शम्भोस्तन्मूलं तव जननि ताटङ्क महिमा ॥ 28 ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोठीरे स्कलसि जहि जम्भारि-मकुटम् । प्रणम्रेष्वेतेषु प्रसभ-मुपयातस्य भवनं भवस्यभ्युत्थाने तव परिजनोक्ति-र्विजयते ॥ 29 ॥ स्वदेहोद्भूताभि-र्घृणिभि-रणिमाद्याभि-रभितो निषेव्ये नित्ये त्वा महमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयन-समृद्धिं तृणयतो महासंवर्ताग्नि-र्विरचयति नीराजनविधिम् ॥ 30 ॥ चतुः-षष्टया तन्त्रैः सकल मतिसन्धाय भुवनं स्थितस्तत्त्त-सिद्धि प्रसव परतन्त्रैः पशुपतिः । पुनस्त्व-न्निर्बन्धा दखिल-पुरुषार्थैक घटना- स्वतन्त्रं ते तन्त्रं क्षितितल मवातीतर-दिदम् ॥ 31 ॥ शिवः शक्तिः कामः क्षिति-रथ रविः शीतकिरणः स्मरो हंसः शक्र-स्तदनु च परा-मार-हरयः । अमी हृल्लेखाभि-स्तिसृभि-रवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ 32 ॥ स्मरं योनिं लक्ष्मीं त्रितय-मिद-मादौ तव मनो र्निधायैके नित्ये निरवधि-महाभोग-रसिकाः । भजन्ति त्वां चिन्तामणि-गुणनिबद्धाक्ष-वलयाः शिवाग्नौ जुह्वन्तः सुरभिघृत-धाराहुति-शतै ॥ 33 ॥ शरीरं त्वं शम्भोः शशि-मिहिर-वक्षोरुह-युगं तवात्मानं मन्ये भगवति नवात्मान-मनघम् । अतः शेषः शेषीत्यय-मुभय-साधारणतया स्थितः सम्बन्धो वां समरस-परानन्द-परयोः ॥ 34 ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथि-रसि त्वमाप-स्त्वं भूमि-स्त्वयि परिणतायां न हि परम् । त्वमेव स्वात्मानं परिण्मयितुं विश्व वपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ 35 ॥ तवाज्ञचक्रस्थं तपन-शशि कोटि-द्युतिधरं परं शम्भु वन्दे परिमिलित-पार्श्वं परचिता । यमाराध्यन् भक्त्या रवि शशि शुचीना-मविषये निरालोके உलोके निवसति हि भालोक-भुवने ॥ 36 ॥ विशुद्धौ ते शुद्धस्फतिक विशदं व्योम-जनकं शिवं सेवे देवीमपि शिवसमान-व्यवसिताम् । ययोः कान्त्या यान्त्याः शशिकिरण्-सारूप्यसरणे विधूतान्त-र्ध्वान्ता विलसति चकोरीव जगती ॥ 37 ॥ समुन्मीलत् संवित्कमल-मकरन्दैक-रसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापा-दष्टादश-गुणित-विद्यापरिणतिः यदादत्ते दोषाद् गुण-मखिल-मद्भ्यः पय इव ॥ 38 ॥ तव स्वाधिष्ठाने हुतवह-मधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान् दहति महसि क्रोध-कलिते दयार्द्रा या दृष्टिः शिशिर-मुपचारं रचयति ॥ 39 ॥ तटित्वन्तं शक्त्या तिमिर-परिपन्थि-स्फुरणया स्फुर-न्ना नरत्नाभरण-परिणद्धेन्द्र-धनुषम् । तव श्यामं मेघं कमपि मणिपूरैक-शरणं निषेवे वर्षन्तं-हरमिहिर-तप्तं त्रिभुवनम् ॥ 40 ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मान मन्ये नवरस-महाताण्डव-नटम् । उभाभ्या मेताभ्या-मुदय-विधि मुद्दिश्य दयया सनाथाभ्यां जज्ञे जनक जननीमत् जगदिदम् ॥ 41 ॥